SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ३९९ जेसिं तु विउला सिख्खा, मूलिअं ते अइत्थिआ । सीलवंता सविसेसा, अदीणा जंति देवयं ।। २१ ।। व्याख्या - येषां तु विपुला नि:शङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेष:, मौलिकं मूलधनरूपं मानुषत्वं ते नराः 'अइत्थिअत्ति' अतिक्रम्योल्लङ्घ्य शीलवन्तः, अविरतसम्यग्दृष्ट्यपेक्षया सदाचारवन्तः, विरताविरतापेक्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महाव्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुणप्रतिपत्तिरूपेण वर्त्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भविष्यामः ? मायाहिं सिक्खाहिं, जे नरा गिहिसुव्वया । उविंति माणुसं जोणि, कम्मसचा हु पाणिणो ।। २० ।। औरश्रीयनाम सप्तम - व्याख्या - विमात्राभिर्विविधपरिणामाभि: शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः उक्तञ्च - "चउहिं ठाणेहिं जीवा मणुस्साउअं ॥ मध्ययनम् निबंधंति, तंजहा - पगतिभद्दयाए, पगतिविणीअयाए, साणुक्कोसयाए, अमच्छरिअयाएत्ति" ये नराः गृहिणश्च ते सुव्रताश्च धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतञ्च लौकिका अप्येवमाहुः – “विपद्युचैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः सतां केनोद्दिष्टं विषमसिधाराव्रतमिदम् ।।१।। " आगमोक्तव्रतधारणं त्वेषां न सम्भवति, देवगतिहेतुत्वात्तस्य । यत्तदोर्नित्याभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषीं योनिं किमित्येवमत आह - 'कम्मेत्यादि' हु यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वाद्व्यत्यये कर्मसत्याः प्राणिनः इति सूत्रार्थः ।। २० ।। अथ लब्धलाभोपनयमाह - Jain Education Intellonal sil For Personal & Private Use Only C ३९९ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy