________________
all
उत्तराध्ययन
सूत्रम् ३९५
Isl
ला औरभ्रीयनाम 16
सप्तम
मध्ययनम् ||61
llel foll
lel
Mell IMoll llol || Isil
llsil 16
||
तथा हि पुर्यां क्वाप्येको, बभूवेभ्यो महाधनः । सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनास्त्रयः ।।१।। तेषां सहस्रं दीनारान्, दत्वा प्रत्येकमेकदा । तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैगमः ।।२।। गत्वा पृथक् पुरीवित्ते-नेयता व्यवहत्य च । कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ।।३।। ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीवृति । पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ।।४।। तेष्वेकोऽचिन्तयत् प्रेषीत्, परीक्षार्थं पिता हि नः । तोषणीयः स तद्भूरि-धनोपार्जनया मया ।।५।। चञ्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् । पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ।।६।। तदुपार्जनयोग्यं च, वयो मे वर्त्ततेऽधुना । द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ।।७।। यदुक्तं - "प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ।।८।।" विमृश्येति द्यूतमद्य-वेश्यादि व्यसनोज्झितः । यथोचितं व्ययन् वित्त-मदनाच्छादनादिना ।।९।। व्यापार विविधं कुर्वन्, 'अनर्वाणं स वाणिजः । उपार्जयद्बहु द्रव्यं, व्यापारो हि सुरद्रुमः ।।१०।। द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः । विनार्जनां भुज्यमानं, किन्तु तत्क्षीयते क्षणात् ।।११।। तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् । ध्यात्वेति नातिभूयांसं, स वाणिज्योद्यम व्यधात् ।।१२।।
16
isi ils lls ||6||
is
Isl
I6ll
ला
lifell
18 Isl
lifal
Iell
१. उत्तमम् ।
३२
||ll
Fell Isll
Isl
Jan Education international
For Personal & Private Use Only
www.jainelibrary.org