SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३९३ Mel MB कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैतेषामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह । इह च पूर्व औरभ्रीयनाम 'देवकामाणमंतिएत्ति' काममात्रोपादानेऽपि 'आउं कामा य दिब्विआ' इत्यत्र यदायुषोप्यादानं तत्तत्रत्यायुष्कादीनामपि सप्तम मध्ययनम् ॥ मनुष्यजीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ।। १२ ।। मनुष्यकामानामेव काकिण्याम्रफलोपमतां भावयितुमाह - अणेगवासानउआ, जा सा पण्णवओ ठिई । जाणि जीअंति दुम्मेहा, ऊणे वाससयाऊए ।।१३।। व्याख्या - अनेकानि बहूनि तानि चेहासङ्ख्येयानि वर्षाणां वत्सराणां नयुतानि सङ्ख्याविशेषा अनेकवर्षनयुतानि, & प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं - "चतुरशीतिवर्षलक्षा पूर्वाङ्ग, तञ्च पूर्वाङ्गेन गुणितं पूर्वं । पूर्वं चतुरशीतिलक्षाहतं नयुताङ्गं, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति ।" का नामैवमुच्यते इत्याह – 'जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह - या सा भवतामस्माकञ्च । प्रतीता । 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान्, न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च | प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुर्लक्षणा अधिकृतत्वाद्दिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च | M विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क्व पुनस्तानि l हारयन्तीत्याह-ऊने वर्षशतायुषि, प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरय॑न्ते, अस्मिंस्तु सक्षिप्तायुष्येकदापि हारितानि हारितान्येव, foll 6 श्रीवीरस्वामितीर्थे च प्रायो न्यूनवर्षशतायुषः एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असङ्ख्यवर्षनयुतानि | is कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेर्देवलोकेषु स्थिति: प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवचः श्रद्दधतां ३९३ 11 II Ill 61 Jan Education in For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy