________________
Poll
उत्तराध्ययन
सूत्रम् ३९०
Isll Jell llell Ioll
| औरभ्रीयनाम
सप्तममध्ययनम्
||
lein
lil
Isil
leil
Ioll
lish Isil ||६|| Isl
जहा कागणिए हेर्ड, सहस्सं हारए नरो । अपत्थं अंबगं भुञ्चा, राया रजं तु हारए ।।११।।
व्याख्या - यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउंति' हेतोः कारणात्सहस्रं दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासो सम्प्रदायः -
तथा हि दुर्गत: कोऽपि, भ्रामं भ्रामं महीतले । उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ।।१।। ववले सह सार्थेन, तदादाय गृहं प्रति । जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ।।२।। विधाय काकिणीरेक-रूपकस्य स चाध्वनि । एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ।।३।। अन्यदा काकिणीमेका, विस्मार्य क्वापि सोऽचलत् । दूरंगतश्च तां स्मृत्वा, चेतसीति व्यचिन्तयत् ।। ४ ।। काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे । इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ।।५।। तदेककाकिणीहेतो-रन्यरूपकभेदनम् । प्रातर्भावीति तामेव, व्याघुट्य द्रुतमानये ।।६।। ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् । न्यवतिष्ट विमूढा हि, स्वल्पार्थं भूरिहारिणः ! ।।७।। गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् । तस्मिन् गते तु तं हत्वा, ततस्तूर्णं स नष्टवान् ।।८।। सोऽथ तद्विस्मृतिस्थान-मवाप्तो दुःस्थपूरुषः । तत्रागतेन केनापि, हतां न प्राप काकिणीम् ।।९।। ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः । नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ।।१०।।
sil
lirail ||sil llell llol
|
llel
llsil lol
३९०
Jel in Ecole
Isl ill
wherw.jainelibrary.org
For Personal Private Use Only