SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् औरभ्रीयनाम सप्तममध्ययनम् ३८६ ||oll III Isl is तञ्च दृष्ट्वा लाल्यमान-मुत्कोपः कोऽपि तर्णकः । विमुक्तं गोदुहा मात्रा, गोपितं न पपो पयः ।।४।। लिहती तं ततः स्नेहा-द्धेनु: पप्रच्छ वत्सकम् । कुतो हेतोरिदं दुग्धं, न पिबस्यद्य नन्दन ! ।।५।। सोऽवादीद्भोजन रम्यैः, सर्वेऽस्मत्स्वामिनन्दनाः । उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ।।६।। मन्दभाग्याय मह्यं तु, न काले पाययन्त्यपः । न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो ! ।।७।। पतिभेदेन तन्मात-मनो मे दूयते भृशम् ! । अत एव च न क्षीर-मद्य सद्यः पिबाम्यहम् ।।८।। तच्छ्रुत्वा गोर्जगी वत्स !, किमत्रार्थे विषीदसि ? । उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ।।९।। रोगिणाऽभ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना । यथा पथ्यमपथ्यं वा, सर्वं तस्मै प्रदीयते ।।१०।। ज्ञेयं वत्स ! तथैवेद-मुरभ्रस्यापि पोषणम् । लप्स्यते नियतं मृत्यु-मागतेऽभ्यागते ह्यसौ ।।११।। शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः । उपद्रवविनिर्मुक्तैः, सुचिरं जीव्यते यया ।।१२।। जनन्येत्युदित: प्रेम्णा, तर्णकः स्तन्यमापिबत् । प्राघूर्णकाः समाजग्मु-स्तत्स्वामिसदनेऽन्यदा ।। १३ ।। तमुरभ्रं ततो हत्वा, गृहेशस्तानभोजयत् । निघ्नन्ति हि परान् स्वल्पा-यापि स्वार्थाय निर्दयाः ! ।।१४ ।। तञ्च दृष्ट्वा हन्यमान-ममानं भीतमानसः । नापान्मातुः पयः साय-मायाताया: स तर्णकः ।।१५।। दुग्धापाननिदानं च, पृष्टो मात्राऽब्रवीदिति । मातरद्य कुतोप्यत्रा-ऽऽययुः प्राघूर्णका घनाः ।।१६।। lel Isll lsil Isll sil 16ll 16 I www.jainelibrary.org Isil lal in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy