SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ lel Ifoll 16 ||oll Iall III ||ll ell उत्तराध्ययनतओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ।।२।। ill औरभ्रीयनाम सूत्रम् सप्तम३८५ व्याख्या - तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान्, परिवृढः समर्थः, जातमेदा उपचितचतुर्थधातुः, अत एव का मध्ययनम् in महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले देहे सति आदेशं परिकाङ्क्षतीव परिकाङ्क्षति । इह च isi उरभ्रार्भकस्य प्राघूर्णकाभिकाङ्क्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुच्यमानत्वात्, तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा | हि वरार्हा कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते, इति सूत्रार्थः ।।२।। ततश्च - जाव न एइ आएसे, ताव जीवइ से दुही । अह पत्तंमि आएसे, सीसं छित्तूण भुजइ ।।३।। व्याख्या - यावन्नेति न समायाति आदेशोऽतिथिस्तावजीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य । in दानं । अहेत्यादि-अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव स्वामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र sil चायं सम्प्रदायः - तथा हि नगरे क्वापि, गृहस्थः कोऽपि निष्क्रियः । उरभ्रबालकं कञ्चित्, पुपोषाऽतिथिहेतवे ।।१।। मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् । स्नपिताङ्गं हरिद्रादि-रागालङ्कृतभूघनम् ।। २।। तञ्चातिपीनवपुषं, गृहाधिपतिबालकाः । क्रीडाप्रकारैर्विविधैः, क्रीडयाञ्चक्रुरन्वहम् ।।३।। (युग्मम्) Mol ||ll || lol Isl Mail ill ||७|| Isi lei leil Nell Ish Is ||5|| lll Itall in Education n ational For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy