________________
उत्तराध्ययन
सूत्रम् ३८४
।।अथ औरभ्रीयनाम सप्तमाध्ययनम् ।।
6 औरभ्रीयनाम
सप्तम।। ॐ ।। व्याख्यातं षष्टमध्ययनं साम्प्रतमौरभ्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्ग्रन्थत्वं उक्तं, तञ्च रसगृद्धेः
मध्ययनम् foll परिहारादेव स्यात्, तत्परिहारस्तु विपक्षे दोषदर्शनात्तञ्च दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति ॥
रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह नियुक्तिकृत् - "उरब्भे' is कागिणि' अंबएअ ववहार सायरे चेव' ।। पंचेए दिटुंता, ओरब्भीअंमि अज्झयणे ।।१।।" तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम् - 6
जहा एसं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसेजावि सयंगणे ।।१।।
व्याख्या - यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्राघूर्णकस्तं समुद्दिश्य यथाऽसौ कि I समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्ष: पोषयेत् एलकमूरणकं, कथमित्याह - ओदनं भुक्तशेषं l i तद्योग्यशेषानोपलक्षणञ्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो ढौकयेत्, पोषयेत्, पुनर्वचनमस्यादरख्यापनार्थं, अपिः सम्भावने, सम्भाव्यते हि IS कोप्येवंविधो गुरुकर्मेति, स्वकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति स्वकाङ्गण इत्युक्तमिति सूत्रार्थः ।।१।। * ततोऽसौ कीदृशो भवतीत्याह -
||ell
le llel
३८४
Ifoll
lain daction inclona
For Personal & Private Use Only
momwww.iainelibrary.org