________________
||७|| ||Gll
उत्तराध्ययन- Gl
सूत्रम्
llel
३८२
loll
Well
lol
llell
सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिव्वए ।।१६।।
III क्षुल्लकनिम्रन्थीय
8 नाम षष्ठव्याख्या – सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेपमात्रया यावता पात्रं लिप्यते । IM तावन्तमपि सन्निधिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्राद्युपकरणसन्निधिरपि न कर्तव्य इत्याह – 'पक्खीत्यादि' पक्षीव पक्षी, पात्रं ll MS पतद्ग्रहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणञ्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भावः - यथा पक्षी पक्षसञ्चयमादाय याति ISll तथायमपि पात्रादिकमिति, ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसत्रिधिकरणम् न दोषायेति सूत्रार्थः ।। १६ ।। कथं पुनर्निरपेक्षः
||७| 8 परिव्रजेदित्याह -
एसणासमिओ लज्ज, गामे अणिअओ चरे । अप्पमत्तो पमत्तेहिं, पिंडवायं गवेसए ।।१७।।
व्याख्या - एषणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लजूत्ति' लज्जा संयमस्तद्वान्, ग्रामे || I उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत्, अनेनापि निरपेक्षतैवोक्ता, चरंश्च किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि |
M विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षां गवेषयदिति सूत्रार्थः ।।१७।। इत्थं संयमस्वरूपप्ररूपणद्वारा निर्ग्रन्थस्वरूपमुक्तं, न ISM चैतनिजमतिकल्पितमित्याह -
३८२
llell
Isl
Nell
lell llel
Jell
lell
in Education International
For Personal & Private Use Only
www.jainelibrary.org