SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनभयंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ।।१०।। I क्षुलकनिर्गन्धीयसूत्रम् ३७९ व्याख्या - भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्तयुपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो II नाम षष्ठ॥ बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्यं वचनशक्तिर्वाचालतेति यावत्, MSM मध्ययनम् ॥ तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन समाश्वासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति स्वस्थयन्त्यात्मानमिति सूत्रद्वयार्थः ।।१०।। न च All तद्वाग्वीर्यं त्राणाय स्यादित्याह - ण चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहि, बाला पंडिअमाणिणो ।।११।। . व्याख्या - न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमन्त्रौषधीनां ॥ प्रभाव इति मन्त्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमन्त्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते ॥ Is पापान कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह - 'विसण्णत्ति' विविधं का 8. सन्ना मग्नाः पापकर्मसु हिंसाद्यनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं कि ॥ भावः – ये बाला: पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाञ्च दुष्कर्माणि त्यजेयुर्न तु तेषु विषण्णा एवासीरन् ! ये । तु बाला: पण्डितमानिनश्च ते तु स्वयमज्ञा अपि ज्ञत्वगर्वादन्यं ज्ञानिनमनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ।।११।। अथ सामान्यतयैव ॥ l मुक्तिपथप्रत्यर्थिनां दोषमाह - ३७९ Isl Jan Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy