________________
उत्तराध्ययन
सूत्रम् ३७८
आदाणं नरयं दिस्स, नायइज्ज तणामवि । दोगुंछी अप्पणो पाए, दिण्णं भुंजिज भोअणं ।।८।।
ii क्षुल्लकनिर्ग्रन्थीयव्याख्या - आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिरण्यादि । कथं तर्हि fil
.in नाम षष्ठ
मध्ययनम् जीवनमित्याह - 'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु रसादिलम्पटः, आत्मनः । सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुञ्जानस्य पश्चात्कर्मादिदोषसम्भवात्, दत्तं गृहस्थैरिति शेषः, भुञ्जीत भोजनमाहारं । अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्ग्रहणेन गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थ: ।।८।। एवं पञ्चाश्रवविरमणात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाह -
इहमेगे उ मण्णंति, अप्पञ्चक्खाय पावगं । आयरिअं विदित्ता णं, सव्वदुक्खा विमुञ्चइ ।।९।।
व्याख्या - इह जगति एके केचित्परतीथिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्याख्याय il अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारभवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात्
6 शारीरमानसाद्विमुच्यते, यदाहु - “पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ।।१।। तेषां हि IS ज्ञानमेव मुक्तिकारणं, न चैतारु, न हि रोगिणामप्यौषधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो । il ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चाङ्गोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव । in आत्मानं स्वस्थयन्तीति ।।९।। तथा चाह -
३७८
||७|
in Education
For Personal Private Use Only