SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् क्षुलकनिम्रन्थीयisi नाम षष्ठ मध्ययनम् ३७३ li स चान्यदा क्वचिद्ग्रामे, निशि वासार्थमागतः । तस्थौ देवकुले स्थाना-वाप्तिस्तव तादृशाम् ।।५।। तत्र तत्रस्थिते पश्य-त्येव देवकुलात्ततः । विद्यासिद्धः कुम्भपाणिः, पुरुषः कोऽपि निर्ययो ।।६।। सोऽपि तं कुम्भमभ्या -वादीदतिमनोरमम् । कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ।।७।। तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले । तत्र स्थित्वाऽभुक्त भोगान्, सोऽङ्गनाभिः सहाद्भुतान् ।।८।। सञ्जहार प्रभाते च, तत्सर्वमपि सत्वरम् । तत्स्वरूपं तदखिलं, दुःस्थमयों ददर्श सः ।।९।। दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना । एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ।।१०।। ध्यात्वेति सेवनं तस्य, कुर्वन् विनयपूर्वकम् । स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् ? ।।११।। तत: सिद्धपुमानूचे, ब्रूहि किं ते समीहितम् ? । विना समीहां सेवा हि, न केनापि विधीयते ।।१२।। स स्माहाहं जन्मतोऽपि, दारिद्रेणास्मि विद्रुतः । न चाप्नोमि धनं किञ्चित्, प्रयत्नैर्विविधैरपि ।।१३।। दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले । स्निग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ।।१४।। त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् । दारिद्रग्रीष्मसन्ताप-समुत्तप्तः श्रितोस्म्यहम् ।।१५।। तत् प्रसद्य महाभाग !, तथा कुरु यथा मम । त्वद्वत्सुखोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ।।१६।। |७|| llell Isl Isil ||6ll ||७|| iell llell ३७३ lain Education in For Personal & Private Use Only Halwww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy