________________
उत्तराध्ययन
सूत्रम्
३६६
Jain Education Inb
ATTOOTOD
ततः स तत्र भिक्षार्थं, पर्यभ्राम्यन्मुहुर्मुहुः । वदन्नुच्चैः स्वरं दीन- वचांसि रसलोलुपः ।। ३ ।।
न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन । ततः प्रद्विष्टचित्तः स दुष्टधीरित्यचिन्तयत् ।।४।। अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं स्वयम् । दीनाय न तु मे स्वल्प-मपि यच्छन्ति निर्दयाः । । ५ । । तदमूनुपवैभारं निविष्टान् दुष्टचेतसः । कयाचिच्छिलया तूर्णं, चूर्णयामीति चिन्तयन् ।। ६ ।। वैभारगिरिमारुह्य, स क्रोधाध्मातमानसः । सर्वात्मना विलग्यैकां, शिलां गुवमचीचलत् ।। ७।। (युग्मम्) तस्यां विलुण्ठितायां द्राक्, स पृथक् स्थातुमक्षमः । लुण्ठंस्तया समं तस्या, एवाधस्तादुपाययौ ।। ८ ।।
ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य । तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ।। ९ ।। इति द्रमककथा ।
ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं सुगतिहेतुरित्याह – 'भिक्खाए वत्ति' भिक्षामत्ति भुङ्क्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्ठु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुव्रतः, क्रामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं क्रामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थं, अनेन च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ।। २२ ।। अथ यैर्व्रतैर्गृहस्थोऽपि दिवं याति तान्याह -
ational
For Personal & Private Use Only
|||| ॥७॥
||७||
अकाममरणीयनाम पञ्चम||७|| मध्ययनम्
॥६॥
॥६॥
३६६
www.jainelibrary.org