SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३६५ llol llel चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं । एआई पि न ताइंति, दुःसीलं परिआगयं ।। २१।।। il अकाममरणीय Mi नाम पञ्चमव्याख्या - चीराणि च चीवराणि, अजिनं च मृगादिचर्म, चीराजिनं । 'नगिणिणंति' आर्षत्वान्नाग्नयं, 'जडित्ति' भावप्रधानत्वानिर्देशस्य ॥ मध्ययनम् 1 जटित्वं, सङ्घाटी वस्त्रसंहतिजनिता कन्थेत्यर्थः, 'मुंडिणंति' मुण्डत्वं, एतान्यपि निजनिजप्रक्रियाकल्पितानि व्रतिलिङ्गान्यपि, किं ? 5 पुनर्हिस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतः, कमित्याह-दुःशीलं दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्राप्तं, आर्षत्वान याकारस्यैकस्य लोपः । न हि कषायकलुषचेतसोऽतिकष्टहेतुरपि बहिर्बकवृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति । सूत्रार्थः ।।२१।। ननु ? कथं गृहाद्यभावेपि तेषां दुर्गतिरिति चेदुच्यते - __पिंडोलएव्व दुस्सीले, नरगाओ न मुञ्चई । भिक्खाए वा गिहत्थे वा, सुव्वए कमई दिवं ।। २२।। व्याख्या - ‘पिंडोलएव्वत्ति' वा-शब्दोऽपि-शब्दार्थस्ततश्च पिण्डावलगकोऽपि स्वीयाहाराभावतो भक्ष्यसेवकोपि, आस्तां गृहादिमान्, व दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः - तथाहि द्रमकः कोपि, पुरे राजगृहेऽभवत् । स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ।।१।। Isl वैभारगिरिपार्श्वस्थ-मुद्यानं स गतोन्यदा । उद्यानिकार्थमायातं, जनं भुञ्जानमेक्षत ।।२।। || I . पिण्ड परदत्तग्रासमवलगते सेवते इति पिण्डाबलगः स एव पिण्डावलगकः । ३६५ Ifoll ||sil tle.ll For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy