________________
उत्तराध्ययन
सूत्रम्
३६४
तत्सम्भवात्, सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतेः । विषमशीलाश्च विसदृशशीलाश्च भिक्षवो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते ! तर्हि क्व तीर्थान्तरीया: ? इति सूत्रार्थः । । १९ । । विषमशीलतामेव भिक्षूणां समर्थयितुमाह -
संति एहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि अ सव्वेहिं, साहवो संजमुत्तरा ।। २० ।।
व्याख्या - सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकभिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः संयमोत्तरा न स्युः ? किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोत्तराः सम्पूर्णसंयमान्वितत्वात्तेषां । अत्र च वृद्धवादो यथा
श्राद्धः साधुं पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्षपान्तरं । तदाकर्ण्याकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः स्माह तदेव, ततः प्रसादमाससादेति । उक्तञ्च - "देसिक्कदेसविरया, समणाणं सावगा सुविहिआणं । तेसिं परपासंडा, सइमं पि कलं न अग्घंति ।। १।।” तदेवं भिक्षूणामपि तेषां चारित्राभावात् पण्डितमरणाभाव एवेति सूत्रार्थः ।। २० ।। ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव तत्कथं तेभ्यो गृहस्थाः संयमोत्तराः ? इति सन्देहापोहायाह -
Jain Education Inteutional
For Personal & Private Use Only
॥७॥
TTTTTT
अकाममरणीयनाम पञ्चम
मध्ययनम्
३६४
www.jainelibrary.org