________________
उत्तराध्ययन- प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डितमरणप्रस्तावनामाह - 'एत्तोत्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत डा अकाममरणीयसूत्रम् Mol मे मम वदत इति शेष इति सूत्रार्थः ।।१७।। यथा प्रतिज्ञातमेवाह -
6 नाम पञ्चम
मध्ययनम् मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं । विप्पसनमणाघायं, संजयाणं वुसामआ ।।१८।।
व्याख्या - मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवता, किं सर्वमपि ? नेत्याह-यथा येनप्रकारेण मे Iol कि मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तं, अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं? मरणमित्याह - 'विप्पसनंति' विविधैर्भावनादिभिः
का प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसत्रं, तथा न विद्यते आघात: पीडात्मकस्तादृशयतनया in परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां ? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आर्षत्वावश्यवन्तः is वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतञ्चार्थात्पण्डितमरणमेव, ततोयमर्थः - यथा ह्येतत्संयतानां वश्यवतां S विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ।।१८।। किञ्च -
ण इमं सब्वेसु भिक्खुसु, न इमं सव्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ।।१९।।
व्याख्या - नेदं पण्डितमरणं 'सव्वेसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविनां व्रतिनामिति यावत्, किन्तु | II केषाञ्चिदेवोपचितपुण्यानां भावभिक्षूणां । तथा च तद्गृहस्थानां दूरापास्तमेव, अत एवाह-नेदं सर्वेषामगारिणां, सर्वचारित्रिणामेव
Iol
sil
३६३
lisil
sil
||७|| llsil
Jain Education international
IST
For Personal
Private Use Only