________________
उत्तराध्ययनसूत्रम्
३६०
किमित्याह-शिशुनाग इवालस इव मृत्तिकां, स हि स्निग्धतनुतया बहीरजोभिरवगुण्ड्यते, तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यन्निहैव क्लिश्यते । तथायमप्युपचितकर्मवशादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ।। १० ।। इदमेव स्पष्टयति
-
Jain Education International
तओ पुट्ठो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो । ११ । ।
||६||
व्याख्या -- 'तओत्ति' स एवैकः ततो वा दण्डारम्भाद्युपार्जितमलादनुस्पृष्टोऽभिभूतः केन ? आतङ्केन आशुघातिना शूलविशूचिकादिरोगेण ॥ ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षेण त्रस्तः 'परलोगस्सत्ति' परलोकात्, आर्षत्वात्पञ्चम्यर्थे षष्ठी, कुत एवं ? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां स्वचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं ! किन्तु सदैवाजरामरवच्चेष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं - "भवित्रीं भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां ॥ व्यथयति जराजीर्णवपुषाम् । । १ । ।" इति सूत्रार्थः । । ११ । । एतदेव व्यक्तीकरोति -
सुआ मे नरए ठाणा, असीलाणं च जा गई । बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा ।। १२ ।।
व्याख्या - श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि तत्किमियतापि परितप्यत इत्याह- अशीलानां च दुराचाराणां
॥६॥
For Personal & Private Use Only
lle.
काममरणीयपञ्चम
मध्ययनम्
३६०
www.jainelibrary.org