SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागेण क्लेशमिह परत्र च सम्प्रतिपद्यते प्राप्नोतीति सूत्रार्थः ।।७।। यथा चायं क्लेशं 5 अकाममरणीयप्राप्नोति तथा प्राह - नाम पञ्चम ३५७ Is मध्ययनम् I lol 161 तओ से दंडं समारभइ, तसेसु थावरेसु अ । अट्ठाए व अणट्ठाए, भूअग्गामं विहिंसइ ।।८।। व्याख्या - ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्त्तयति, त्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु, अर्थाय कि वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै निरर्थकमित्यर्थः । ननु निरर्थकमपि किं कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ।। तथाहि कोप्यजापालः, संनिवेशे क्वचिद्वसन् । अजाश्चारयितुं नित्य-मटति स्म वनान्तरे ।।१।। अजाव्रजे च मध्याह्ने, न्यग्रोधद्रुममाश्रिते । तस्य छायामुपाश्रित्य, सोप्युत्तानतयाऽस्वपीत् ।।२।। लघुना धनुषा मुक्तै-बंदरास्थिभिरन्वहम् । वटस्य तस्य पत्राणि, छिद्रयामास चासकृत् ।।३।। क्रीडापरेण तेनैवं, प्रायो विद्धाखिलच्छदः । न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ।।४।। तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः । भूपभूस्तं तथाभूतं, वटं वीक्ष्य विसिष्मिये ! ।।५।। केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? । इत्यपृच्छञ्च तमजापालं भूपालनन्दनः ।।६।। isi lish ३५७ Jan Education international For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy