________________
उत्तराध्ययन
सूत्रम् ३५०
IN
T
Jir.ll
रागरूपत्वात्क्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ।।१२।। अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे' इत्यादि-तत्कदाचिचरकादिष्वपि ||९|| प्रमादाप्रमादनाम ol स्यादिति शङ्कापोहार्थमाह -
चतुर्थ
मध्ययनम् जे संखया तुच्छपरप्पवाई, ते पिज्जदोसाणुगया परज्झा । s ol
एए अहम्मुत्ति दुगंच्छमाणो, कंखे गुणे जाव सरीरभेओ ।।१३।। त्ति बेमि व्याख्या - ये इत्यनिर्दिष्टस्वरूपा: संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छाभिधायितया निःसाराः, परप्रवादिनः । no परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि-सर्वथा सूनृते जिनवाक्येपिया कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव Mon परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह-एते अधर्महेतुत्वादधर्मा इत्यमुनोल्लेखेन जुगुप्समाना ॥
उन्मार्गगामिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात्, एवंविधश्च किं कुर्यादित्याह-काङ्क्षदभिलषेद्गुणान् । Mel ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान, कियत्कालमित्याह-यावच्छरीरभेदो देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेष्वेव समुत्थानं ॥ Mal कामप्रहाणंच तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ।।१३।। इति ब्रवीमीति प्राग्वत् ।।
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराII ध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ।। ४।।
।। इति चतुर्थाध्ययनं सम्पूर्णम् ।।
lall
IST
३५०
16
lisil
Ital
||All
itell
For Personal & Private Use Only
www.jainelibrary.org