SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३४९ IGN मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं । ial प्रमादाप्रमादनाम फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ।।११।। चतुर्थ मध्ययनम् व्याख्या -- मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्कश्यकुरूपत्वादीनि रूपाणि ॥ MS येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति स्वानि स्वानि इन्द्रियाणि गृह्यमाणतया इति स्पर्शाः, शब्दादयस्ते स्पृशन्ति, * गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसं चत्ति' चशब्दस्यावधारणार्थत्वादसमञ्जसमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' ला ॥ अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात्, अयं भावः-अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापनेषु अहो एषामनिष्टत्वमिति । M न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ।।११।। तथा - मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा । ||ail रक्खिन कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ।।१२।। ||sil व्याख्या -- मन्दयन्ति विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः, च समुचये, स्पर्शाः शब्दाद्याः, बहून लोभयन्ति मोहयन्तीति बहुलोभनीयाः, ॐ IIM अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यात्र निवेशयेत्, il एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह-रक्षेनिवारयेत्क्रोधं, विनयेदपनयेन्मानमहङ्कारं, मायां I 4 परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात्, ‘पयहिज्जत्ति' प्रजह्याल्लोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोद्वेषात्मकत्वान्मायालोभयोश्च ३४९ lel llall Jan Education International For Personal Private Use Only www.by.
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy