SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ I उत्तराध्ययन सूत्रम् ३४५ Isi sil el - मध्ययनम् Mall अन्यस्तु दुष्टशिक्षावान्, शुभशिक्षाविनाकृतः । तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ।।८।। ial प्रमादाप्रमादनाम यन्त्रभ्रमेण भ्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् । अशिक्षितोयमित्यन्त-विंदाञ्चक्रुः परे भटाः ।।९।। व चतुर्थततस्तत्सादिनं हत्वा, जगृहस्तमरातयः । विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनः ।।१०।। आद्यो यथाश्वो निजसादिपार-तन्त्र्यात्समित्यारमवाप सद्यः । धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतन्त्र्यात् ।।११।। इति वाजिद्वयकथा ।। अत एव च 'पुव्वाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवस्व, अप्रमत्तः प्रमादपरिहर्ता, 'तम्हत्ति' । &ll तस्मात्स्वातन्त्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदायुषामेव चारित्रपरिणामः स्यादिति In दर्शनार्थमुक्तमिति सूत्रार्थः ।।८।। ननु ? यदि छन्दोनिरोधेन मुक्तिस्तन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाह - स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं । विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ।।९।। व्याख्या - स इति यत्तदोनित्याभिसम्बन्धात् यः पूर्वप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं पुव्वमेवंति' एवं शब्दस्य उपमार्थत्वात् । ७ पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति । sil ||sil ३४५ le For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy