________________
lall
Isll
उत्तराध्ययन
सूत्रम् ३४१
ller
iii प्रमादाप्रमादनाम or चतुर्थ
मध्ययनम्
भुजिष्य इव भूजानि-स्ततो मण्डिकमन्वगात् । स्वकार्यसिद्ध्यै दक्षो हि, नीचमप्यनुवर्तते ।।१५।। ततो धनिगृहे क्वापि, कृत्वा क्षात्रं मलिम्लुचः । आकृक्षत्सारवस्तूनि, भानुसूनुरसूनिव ।।१६।। तञ्च सर्वं परास्कन्दी, शिरस्यारोप्य भूपतेः । पुरस्कृत्य च तं कृष्ट-कृपाणो भूगृहं ययौ ।।१७।। मध्ये भूमिगृहं भूप-मानीयोत्तार्य वीवधम् । क्षालयाऽस्यातिथे: पादा-विति जामिमुवाच सः ।।१८।। तत: कूपोपकण्ठस्थे, पीठे सा विनिवेश्य तम् । पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ।।१९।। तावत्तन्मृदुतामब्ज-जित्वरीमनुभूय सा । मदिराक्षी मृदूभूत-चित्ता चित्ते व्यचिन्तयत् ।।२०।। एष सत्पुरुषो भुक्त-पूर्वराज्योऽस्ति निश्चितम् । जन्मतो भारवाहस्य, पादस्पर्शो हि नेदृशः ! ।।२१।। नरोत्तमममुं तत्र, कूपे क्षेप्यामि सर्वथा । ध्यात्वेति सा शनैरेवं, तमुवाच मनस्विनी ।।२२।। कूपेऽत्र बहवः क्षिप्ताः, पादशौचमिषान्मया । त्वां तु क्षेप्स्यामि नैवात्र, त्वमहिम्ना वशीकृता ! ।। २३।। ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां मयि । अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः ! ।।२४ ।। तन्निशम्य बलस्यायं, समयो नेति चिन्तयन् । आनीतवित्तविन्यास-व्यग्रे चौरे ननाश सः ।। २५।। गते च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् । कङ्कलोहासिमादाया-ऽनुभूपं सोप्यधावत ।। २६ ।। तं सन्निकृष्टमाकृष्ट-कृपाणं प्रेक्ष्य पार्थिवः । निलीयास्थाञ्चत्वरस्थ-पाषाणस्तम्भसन्निधौ ।। २७।।
lol ligil lall
lel
||sill
३४१
llel lei liell
||७||
ill
o n
in Educati
For Personal Private Use Only