SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ fall उत्तराध्ययन सूत्रम् ३४० llel II चतुर्थ ell ||७|| 16 प्रमादाप्रमादनाम Isl ||al मध्ययनम् roll Isil Isll वेण्णातटपुरे तुन-कारो मण्डिकसञ्जकः । परस्वहरणासक्तो-ऽभवन्मायानिकेतनम् ।।१।। स च मे व्रणमस्तीति, जानुबद्धपटञ्चरः । राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ।।२।। रात्री तु धनिधामभ्यो, धनं हत्वा पुराद्वहिः । उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ।।३।। तत्र चासीत्स्वसा तस्य, कन्यका प्राप्तयौवना । कूपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ।।४।। यं च प्रलोभ्यानयति, स चौरो भारवाहकम् । तमुपावीविशत्कूप-पार्श्वस्थासने तत्स्वसा ।।५।। पादशौचमिषात्पादे, धृत्वान्धो न्यक्षिपञ्च तम् । इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ।।६।। पिशाचमिव तं धर्तुं, पुरारक्षोपि नाशकत् । पूर्वोक्तो मूलदेवाह्व-स्तत्र चाभूनृपस्तदा ।।७।। तत उद्वेजितास्तेन, राक्षसेनेव दस्युना । पौराः सर्वे मूलदेव-भूपमेवं व्यजिज्ञपन् ।।८।। स्वामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् । व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ! ।।९।। स च ग्रहीतुं केनापि, शक्यते न महीपते ! । पाहि पाहि प्रजाः सर्वा-स्तस्मादस्मादुपद्रवात् ! ।।१०।। सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य च । नृपश्चक्रेन्यमारक्षं, तं धर्तुं सोऽपि नाशकत् ! ।।११।। ततो निशि स्वयं श्यामां-शुकं प्रावृत्य भूपतिः । शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ।। १२।। श्रान्तो भूपस्ततो याव-त्सभायामस्वपीक्वचित् । कोत्रास्तीति वदस्ताव-त्तत्रोपेयाय मण्डिकः ।।१३।। अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदनृपः । एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ।।१४।। Isil ||6ll Isl Jiol sil ISI Gl sil ॥७ hell sil ३४० Isll Mel For Personal Private Use Only www.jaineibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy