________________
Isl
Jell
उत्तराध्ययन-
सूत्रम् ३३९
ll lsil Ill
16|| प्रमादाप्रमादनाम Isl
चतुर्थ
मध्ययनम् Isl
Ho
lell llel
||OM
चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्त्रमाणो ।
लाभंतरे जीविअ वूहइत्ता, पच्छा परिण्णाय मलावधंसी ।।७।। व्याख्या - चरेद्गच्छेन्मुनिरिति शेषः, पदानि पादनिक्षेपरूपाणि परिशङ्कमानः, मा मे संयमविराधना भूयादिति परिभावयन् तथा 'जं is किंचित्ति' यत्किञ्चिद्दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव पाशं बन्धहेतुतया मन्यमानो जानानः, अयं भावः - यथा भारुण्डपक्षी पदानि l IM परिशङ्कमानश्चरति, यत्किञ्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु ? यदि परिशङ्कमानश्चरेत्तर्हि MSM IN पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाह-लाभान्तरे अपूर्वार्थप्राप्तिरूपे सति, अयं भाव:
l यावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति तावदिदं जीवितं प्राणधारणरूपं बृंहयित्वा, अकालोपक्रमरक्षणेन कि fell अनपानोपयोगादिभिश्च वृद्धि नीत्वा पश्चाल्लाभविशेषप्राप्तेरुत्तरकालं परिज्ञाय सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वद्गुणविशेषार्जनक्षम, न on चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं का प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः, यद्वा मलाश्रयत्वान्मल औदारिकं शरीरं, i॥ तदपध्वंसी स्यात्तनिरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणमपि गुणायैवेति स्थितम् । इह च यावल्लाभं ॥ देहधारणे मण्डिकदस्युरुदाहरणम्, तत्रायं वृद्धवादः । तथाहि -
||Gl
३३९
llsil llsil
||
llel
||
llell min Education International
For Personal & Private Use Only
www.jainelibrary.org