________________
||61
oil ||6| प्रमादाप्रमादनाम foll
चतुर्थall
मध्ययनम्
उत्तराध्ययन
इति सुन्दरभूपनन्दनये-श्चरितं चित्रकरं निशम्य सम्यक् । भाविकैः शिवकाङ्क्षिभिर्द्विधापि, श्रयणीयः प्रतिबुद्धजीविभावः ।। ३३४ ।। सूत्रम् ३३८
इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ।।
प्रतिबुद्धजीवी सन् किं कुर्यादित्याह – 'न वीससे' इत्यादि - न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः-बहुजनादृतत्वात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत्, पण्डितो विद्वान् । आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः, 6कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाधुपलक्षणं चैते, कदाचिच्छारीरबलात् घोरा Hel अप्यमी न प्रभविष्यन्तीत्यत आह-अबलं बलरहितं मृत्युदायिनो मुहूर्तानिराकर्तुं विसोढुं वा असमर्थं शरीरं वपुः, उक्तञ्च - ___"सत्थगीजलसावय-वीसूइआवाहिअहिविसाईहिं । जजरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ।।१।।
जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं । जरडाइणिआवासं, का कीरउ तत्थ दीहासा ! ।।२।।"
तर्हि किं कार्यमित्याह-भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवस्व, अन्यथा तु यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सह साधारणस्य मध्यवर्तिचरणस्य सम्भवात्स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च -
"एकोदरा: पृथग्ग्रीवा, अन्यान्यफलकाङ्क्षिणः । प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ।।१।।" तथा तवापि प्रमाद्यतः M संयमजीविताभ्रंश एवेति सूत्रार्थः ।।६।। अमुमेवार्थं स्पष्टयन्नाह -
Holl
३३८
lol |
ASTI
Wall
min Education International
For Personal & Private Use Only
www.jainelibrary.org