SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ३३६ SSSSSSSSS Jain Education Inte मुग्धे ! त्वां कामये कामं, बिभेमि त्वत्पतेः परम् । तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् । । ३०८ ।। अधुनाहं हनिष्यामि, स्वपतिं तव पश्यतः । तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ।। ३०९ ।। अचिन्तयच यो मर्तुमुद्यतोऽभूत्सहानया । कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति ! ।। ३१० ।। हरिद्रारागया तन्मे, कृतमङ्गनयानया । विषवल्लीमिव क्रूरो- दर्कां नारी हि कः श्रयेत् ? ।। ३११ ।। अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः । विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ।। ३१२ ।। तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् । तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ।। ३१३ ।। आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना । स्वकान्तामित्यपृच्छत्र, ततः सा कुटिलाब्रवीत् ।। ३१४ । । स्वपाणिस्थज्वलद्वह्नेः, प्रकाश इह सङ्क्रमात् । दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ।। ३१५ । अथ पत्न्याः प्रदायासिं, तस्मिन् धमति पावकम् । कोशात्कृपाणमाकृष्य, घातं, यावन्मुमोच सा ।। ३१६।। तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपानुजः । अपहस्तेन हत्वासिं, पातयामास भूतले ।। ३१७ ।। तच स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् । ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ।। ३१८ । कुमारेदं तव प्रोक्त- मेषां वैराग्यकारणम् । तदाकर्ण्यातिसम्भ्रान्तः कुमारो ध्यातवानिति ।। ३१९ । । अहो ! चरित्रं नारीणां दारुणेभ्योऽपि दारुणम् । अहो तन्मनसां क्रूर भावो व्याघ्रादिजित्वरः ।। ३२० ।। For Personal & Private Use Only נו ॥६॥ प्रमादाप्रमादनाम lall चतुर्थ||६|| मध्ययनम् ३३६ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy