________________
16ll
उत्तराध्ययन
सूत्रम् ३३५
Mish
llell 16
||७| प्रमादाप्रमादनाम
चतुर्थ
मध्ययनम् sil
தா
||6||
liall ISM
llsil
Isil
lell
llell
नाशिते भिल्लचक्रे च, कुमारेण तरस्विना । 'स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम् ।। २९६ ।। तत: कुमारः स्वां नारी, पुरश्चक्रे मनोरमाम् । तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीद्भिलभूपतिम् ।। २९७ ।। कुमारे च गते पञ्च, सोदराः शबरप्रभोः । तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ।। २९८ ।। ततस्ते वैरशुद्ध्यर्थं, रथाध्वानमनुश्रिताः । प्राप्ताः शङ्खपुरेऽद्राक्ष-स्तं कुमारं भटैर्वृतम् ।। २९९।। कुमारमारणच्छिद्रं, वीक्षमाणाश्च तेऽन्यदा । उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ।। ३०० ।। तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना । दष्टा तस्याङ्गना तां च, कुमारो ज्ञातवान् मृताम् ।।३०१।। ततस्तया समं मोहात्, कुमारे मर्तुमुद्यते । आयातं खेचरयुगं, कृपया तामजीवयत् ।। ३०२।। विहायोद्यानमासने, गत्वा देवकुले ततः । विमुच्य कामिनीं तत्र, कुमारो वह्नये ययौ ।।३०३।। चिराल्लब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः । अत्रागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ।।३०४।। अन्यानिवार्य चतुरः, चतुरश्छद्मकर्मणि । तद्विघातकनिष्ठोऽस्था-त्कनिष्ठो द्वारसनिधौ ।। ३०५ ।। विस्मेरकौतुकः सोऽथ, तजायारूपमीक्षितुम् । चिरसङ्गोपितं दीप-माविश्चक्रे समुद्रकात् ।। ३०६ ।।
ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् । सौम्य ! त्वं भव भर्ता मे, मरिष्यामि न चेदहम् ।। ३०७ ।। १. तो चिरं चक्रतुयुद्धं । इति 'ग' संज्ञकपुस्तके ।।
lell 16 llell llell
sil
Isil llol
Mel
16 |61
Well
llall
|| || ||Gl
ell
Ill ||७||
lall ||61
leir
३३५
Isil liell
||oll || IIII
all
in Education International
For Personal & Private Use Only
le
www.jainelibrary.org