________________
Mall ||sil Poll प्रमादाप्रमादनाम
उत्तराध्ययन
सूत्रम् ३३४
foll 16
चतुर्थ
III fall 61 ||ol foll
llsil
मध्ययनम्
100
16 lish
||
al
lal
16 Ilcoll
|| lol
Wol
ततो ज्वलनमुज्वाल्य, रात्रिं तत्रातिवाह्य च । प्रातर्जायापती स्वीय-सौधे तो मुदितौ गतौ ।।२८३।। वृत्तान्तं तं च बन्धूना-मूचतुः खेदहर्षदम् । सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ।। २८४ ।। अन्यदा भूपभूर्वाह-वाहनार्थं बहिर्गतः । निन्येऽरण्येऽपहृत्याशु, वक्रशिक्षितवाजिना ।। २८५।। तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् । किमिहाद्भुतवीक्षार्थं, सिद्धसद्माऽऽगतं दिवः ।। २८६ ।। चैत्यस्य तस्य पार्वे च, कल्पद्रुरिव जङ्गमः । चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ।। २८७।। व्रतिव्रातः परिवृतः, पुरन्दर इवामरैः । आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ।। २८८।। भासमानो गुरुगुणै-महोभिरिव भास्करः । जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ।। २८९।। चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः । अदर्शि साहसगति-र्नाम्ना धाम्ना रविं जयन् ।। २९० ।। (चतुर्भि:कलापकम्) ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च । शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ।। २९१।। तत्र च प्रेक्ष्य पुरुषान्, पञ्च चारित्रकाक्षिणः । कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ।। २९२।। रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी । स्वामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ।। २९३।। गुरुर्जगाद चमरी-सञ्ज्ञा पल्लीह विद्यते । धरणीधरनामासी-दिल्लेशस्तत्र दुर्धरः ।। २९४ ।। अन्यदा नृपभूः कश्चि-दागात्तद्धवि सैन्ययुक् । सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ।। २९५ ।।
foll
15
lei
||sil
||sil || 16
Isl ||
Ilcil
liell llel lioll liell Isll
३३४
llsil llell
llell min Educationa
lio.1
l
For Personal & Private Use Only
diww.jainelibrary.org