SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३३२ ||७|| प्रमादाप्रमादनाम llel चतुर्थमध्ययनम् 16 Moll तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः । ययौ कृताह्वानमिव, वातोद्भूतद्रुपल्लवैः ।। २५७।। समं मदनमञ्जर्या, तत्रागाद्भूपभूरपि । सविस्मयं सकामं च, पौरदारैर्निरीक्षितः ।। २५८।। दोलान्दोलनपानीय-क्रीडापुष्पोञ्चयादिभिः । स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ।। २५९।। रामं रामं यथाकाम, विनोदैविविधैरथ । अपराहे पुराधीशः, समं पौरैः पुरे ययौ ।। २६०।। रतिप्रिय: कुमारस्तु, विसृष्टान्यपरिच्छदः । प्रियाद्वितीयः सुचिरं, रन्त्वा यावत्पुरे व्रजेत् ।। २६१।। तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना । उत्सङ्गे न्यपतत्पत्यु-र्दष्टाहमिति वादिनी ।। २६२।। ततो मन्त्रादिभिर्याव-त्तां चिकित्सति भूपभूः । तावत्सा गरलव्यापा-न्मूर्छिताऽभूदचेतना ।। २६३।। ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः । रुरोद रोदसीकुक्षि-म्भरिभिः परिदेवनैः ।। २६४ ।। दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया । वल्लभानां वियोगो हि, वह्वेरप्यतिरिच्यते ।। २६५।। तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया । स्वल्पा हि सह्यते पीडा, भूरिपीडापहा बुधैः ।। २६६।। इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च । प्रविविक्षुः स्वयं याव-ज्वलयामास सोऽनलम् ।। २६७।। तावत्तत्राजग्मतुः, देवाद्विद्याधरोत्तमौ । इत्यूचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ।। २६८।। हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? । न हीष्टं विद्यते किञ्चित्, प्राणिनां प्राणिताहते ! ।। २६९।। Hell 1161 Iol 161 Poll IMell lall all 161 Mail ३३२ oil Ifoll nau Jain Education International ||ll Nell www.jainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy