SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ३३० SSSSSSS ॥६॥ Jain Education Intellefonal लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् । पुलिन्दवृन्दमुत्त्रस्त-मपश्यन्नश्यदुच्चकैः ।। २३१ । । किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् । यावत्सर्वादिशस्ताव - ददर्शेकं मतङ्गजम् ।। २३२ ।। उदस्तेन स्वहस्तेन, पातयन्तं पतत्रिणः । मूलादप्युन्मूलयन्तं पादपान् सिन्धुवेगवत् ।। २३३ ।। मदाम्बुनिर्झरक्लिन्नं सितं सितमरीचिवत् । उग्रदन्तं महापादं कैलासमिव जङ्गमम् ।। २३४ ।। तं मत्तानेकपं प्रेक्ष्य, त्रस्तां मदनमञ्जरीम् । आश्वास्योदतरत्तूर्णं, स्यन्दनान्नृपनन्दनः ।। २३५ ।। (त्रिभिर्विशेषकम् ) ययौ च सम्मुखं तस्य, धैर्याधरितभूधरः । तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ।। २३६ ।। प्रहर्तुं तत्र दन्ताभ्यां नीचैर्जातं च तं गजम् । उत्प्लुत्यारोहदत्यर्थं, खेदयित्वा मुमोच च ।। २३७ ।। रथमारुह्य गच्छंश्च पुरो व्याघ्रं विलोक्य सः । हित्वा रथमगात्तस्य, सम्मुखं विकसन्मुखः ।। २३८ ।। तमायान्तं प्रति व्याघ्रः क्रोधोद्धुषितकेसरः । पुच्छमाच्छोटयन् व्यात्त वक्त्रो यावदधावत ।। २३९ ।। तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखं । जघानापरपाणिस्थकृपाण्या निष्कृपः स तम् ।। २४० ।। पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः । दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः ।। २४१ । । अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः । धमनीस्फारफूत्कारं, प्रचण्डं यमदण्डवत् ।। २४२ । । लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् । कम्प्राङ्गी व्यलगत्पत्युः कण्ठे मदनमञ्जरी ।। २४३ ।। (युग्मम् ) For Personal & Private Use Only ल ल ल ल ||६|| प्रमादाप्रमादनाम all चतुर्थ मध्ययनम् [**££2 ३३० le.ww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy