________________
loll lioil IIsll प्रमादाप्रमादनाम
उत्तराध्ययन
सूत्रम्
liell
चतुर्थ
३२६
मध्ययनम्
16ll Hell
lasil
Ifoll
lIsll lisil
leel
सोथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः । प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ।। १७९।। गच्छन् प्रयाणैरच्छिन्न-देशमुल्लध्य भूभृतः । कुमारः पादपाकीर्णा, प्रापदेकां महाटवीम् ।।१८०।। प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव । धारासारैर्भुवं सिञ्चं-स्तदा चागाद् घनागमः ।। १८१।। ऋतौ तत्रापि राट्पुत्रः, पित्रोः सङ्गन्तुमुद्यतः । न तस्थौ क्वापि चक्राङ्ग, इव मानसमन्तरा ।। १८२।। तत्रारण्ये व्रजत्तस्य, सैन्यं च बहु भिल्लवान् । रुरोध कोपि भिल्लेशः, स्रोतोवेगमिवाचलः ।।१८३।। तद्भिल्लैः प्रबलैभिन्नं, कुमारस्याबलं बलम् । दिशोदिशं ननाश दाग, मेघवृन्दमिवानिलैः ।। १८४।। सैन्ये नष्टेपि सुलसा-सुतः प्राज्यपराक्रमः । युक्तो मदनमञ्जर्या, रथेनैकेन तस्थिवान् ।। १८५।। युध्यमानश्च तल्लि-बलं प्रबलमप्यलम् । स शरैरुपदुद्राव, ध्वान्तमंशुरिवांशुभिः ।। १८६ ।। ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुः स्वयम् । युद्धायाढौकत क्रोध-दष्टोष्ठो निष्ठुरं ब्रुवन् ।। १८७।। घोराघातनिर्घोषै-स्त्रासयन्तौ वनेचरान् । पृषक्तैः सततोन्मुक्तैः, कुर्वाणो व्योनि मण्डपम् ।। १८८।। अन्योन्यमुक्तनाराच-घर्षणोत्पन्न वह्निना । अनभ्रं विद्युदुद्योतं, दर्शयन्तौ मुहुर्मुहुः ।। १८९।। साश्चर्य वनदेवीभि-वीक्षितौ वीरकुञ्जरौ । ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ।। १९०।। (त्रिभिर्विशेषकम्) न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः । जय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ।। १९१।।
lel
Isl llol lish
foll Mell Isil
Isl
IIsl
16 16l ||७||
Isl
३२६
llell
||sil
Isil
llel lol Isl
isil
For Personal & Private Use Only
Ilellww.iainelibrary.org