________________
iii
उत्तराध्ययन
सूत्रम् ३२५
Hell
all प्रमादाप्रमादनाम foll
चतुर्थllll
मध्ययनम् 116ll
llel
Nal
llol Ilal Isl lal
liell Isll el
ell
leil
llell
प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः । ततः समयमासाद्य, करिष्यामि समीहितम् ! ।।१६६।। इत्युक्त्वा सुलसासूनु-र्दुतिकां विससर्ज ताम् । सापि प्रामूमुदत्तस्य, वाक्यैर्मदनमञ्जरीम् ।।१६७।। अन्येद्युः करभारूढी, तत्पितुः सेवकावुभौ । आयातौ तगृहे तो च, दृष्ट्वाऽमोदत भूपभूः ।।१६८।। तो चालिङ्गय दृढं बाष्प-जलाप्लावितलोचनः । सोप्राक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ।।१६९।। पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः । न चेत्त्वदर्शनं भावि, तदा तूर्णं मरिष्यतः ! ।।१७०।। सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ । मामाह्वातुमिहायातो, तत्र तद्गन्तुमुत्सहे ।।१७१।। स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया । त्वद्दर्शनेन तृप्ताः स्मः, पीयूषेणेव नो वयम् ।।१७२।। इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् । समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ।।१७३।। तत: पुर्या बहिः सेना, निवेश्य सकलां निजाम् । एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः स्वयम् ।।१७४।। यामिन्याः प्रथमे यामे, रहस्तां दूतिकां प्रति । प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ।।१७५।। सेनां प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति । कृते मदनमञ्जर्या-स्तत्तामानय सत्वरम् ।। १७६ ।। ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी । पार्श्वे भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ।। १७७।। सोपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः । स्यन्दनेध्यारोपयत्ता-महो सर्वकषा: स्त्रियः ! ।।१७८।।
1161 Isl ||
Gll lll ||७|
leil
llell ||sil
llel Jell
icall
le
Ill
Ill
Isll llell lall
Isl
Iell
३२५
Jell
lel
llell llsil fell Halwmtiainelibrary.org
Jan Ecation intonal
For Personal & Private Use Only