________________
||७| प्रमादाप्रमादनाम
उत्तराध्ययन
सूत्रम् ३२२
चतुर्थ
si Mail
मध्ययनम्
अप्रमत्ते श्रमणवत्, कुमारे तत्र संस्थिते । निस्त्रिंशपाणिनिस्त्रिंशः, समुत्तस्थौ स तस्करः ।।१२७ ।। निहत्य भारिकांस्तांश्च, कुमारं यावदेक्षत । आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ।।१२८।। पुरलुण्टाक रे ! पाप !, विश्वस्तजनघातक ! । चिरं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ! ।।१२९।। इत्युक्त्वा गच्छतस्तस्य, पादौ खरुन सोऽच्छिनत् । छिन्नमूलस्तरुरिवा-पतञ्चौरस्ततो भुवि ।।१३०।। प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् । अहं भुजङ्गमाह्वान-श्चौरोऽभूवं महाबलः ।।१३१।। इह श्मशाने भूम्यन्तः, सदनं मम विद्यते । तत्रास्ति मे स्वसा, 'वीरमती' सज्ञा कुमारिका ।। १३२।। अभिज्ञानाय तदसिं, ममादाय महामते ! । गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ।। १३३ ।। मद्भूमिवेश्मनो द्वारे, तया चोद्घाटिते सति । तामुदुह्याखिलं द्रव्य-माददीथा मदर्जितम् ।।१३४।। पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा व्रजेः । तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ।।१३५ ।। तस्मिन्मृते तु तत्खड्ग, लात्वा गत्वा वटान्तिके । शब्दिता तेन सम्भ्राता, सा द्वारमुदघाटयत् ।।१३६ ।। तां च दृष्ट्वा जगन्नेत्र-कैरवाकरकौमुदीम् । इयं हि स्मरसर्वस्व-मिति दध्यो नृपात्मजः ।। १३७ ।। सौम्य ! कस्त्वं किमर्थं वा-ऽऽ यासीरिति तया च सः । पृष्टोऽवादीद्यथा वृत्तं, तत: सान्तरदूयत ।।१३८ ।। कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे । वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ।। १३९।।
Isll
fol
lil
liol
lel
loll
foll
Isil
३२२
Jell
isil
lioll llell
For Personal Private Use Only