________________
urall
Iell
Wall प्रमादाप्रमादनाम Poll
उत्तराध्ययन
सूत्रम् ३२१
का
चतुर्थ
मध्ययनम्
hell
lel
Mel
||6||
lel fell foll
all ell llell
ill
Holl
foll
इत्युदीर्य समं तेन, गत्वा पुर्यां स तस्करः । क्वचिदिभ्यगृहेऽकार्षी-त्क्षात्रं श्रीवत्ससंस्थितम् ।।११४ ।। तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् । पेटा: पाटञ्चरो बह्वी, वित्तापूर्णाः समाकृषत् ।। ११५ ।। तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः । प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु ।। ११६ ।। पेटाश्चोत्पाट्य तेः शेषं, कुमारेणात्मना तथा । नगर्या निर्ययौ केना-ऽप्यदृष्टः स पिशाचवत् ।। ११७।। तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना । यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ! ।। ११८ ।। किञ्च नित्यं कृते कस्य, मुष्णाति नगरीमयम् । गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ।।११९।। तन्नायमधुना मार्य, इति ध्यायन्नृपाङ्गजः । तमन्वयासीद्दक्षो हि, नौत्सुक्यं कुरुते क्वचित् ।। १२०।। सर्वेष्वथ पुरोद्यान-मागतेषु मलिम्लुचः । ऊचे कुमारमद्यापि, बहुका विद्यते निशा ।। १२१।। क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः । विनीयते यथा सर्व-वीवधोद्वहनश्रमः ।।१२२।। ओमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् । मूलाद्दक्षिणतस्तस्थौ, परिमोषी तु वामतः ।। १२३।। अन्योन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव । अलीकनिद्रया धूर्त-प्रष्टौ सुषुपतुश्च तौ ! ।।१२४ ।। भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः । तीव्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ! ।।१२५ ।। उत्थाय स्रस्तराद्दक्षः, कुमारस्तु शनैः शनैः । कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ।। १२६ ।।
16ll
Jell
lioil lifoll liall imil
sil llell llel
lell Jell
oll 116 Mell
||sil
|| ||
Mooll lol
३२१
lll
Isl
116
Neil
116
16 Isill Itallen.jainelibrary.org
Jan Education internet
For Personal & Private Use Only