________________
उत्तराध्ययन
सूत्रम् ३२०
Msl| प्रमादाप्रमादनाम
चतुर्थ
मध्ययनम् ॥७॥ Mell Isil Moll Msll
fol
तत्तामादाय वामाक्षीं, क्वचिदन्यत्र याम्यहम् । यद्वा स्वयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ।।१०१।। प्रतिज्ञापालनं वीर-नराणां हि महाव्रतम् । शिरश्छेदेऽपि तद्वीरः, स्वां प्रतिज्ञां न मुञ्चति ! ।। १०२।। ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना । ध्यात्वेत्यादि कुमारोगा-दपराह्वे पुरावहिः ! ।।१०३।। अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः । विद्याभ्रष्टः खेचरेन्द्र इवापश्यद्दिशोखिलाः ।। १०४।। अत्रान्तरे च तत्रैकः, परिव्राजक आययौ । त्रिदण्डकुण्डिकामाली, मुण्डमौलिमहाबलः ।। १०५ ।। रक्ताक्षं हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् । रौद्राकारं दीर्घजङ्घ-मजिनोद्वद्धपिण्डिकम् ।। १०६।। तं वीक्ष्य मापभूइँन-ममीभिर्देहलक्षणैः । तस्करोयमिति ध्यायन्, परिव्राजेत्यभाषत ।। १०७।। (युग्मम्) कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? । ततः कुमारो धिषणा-धिषणस्तमदोवदत् ।। १०८।। दारिद्र्यविद्रुतः शून्य-स्वान्तः स्वामिन् ! भ्रमाम्यहम् । परं पराभवस्थानं, विशां दारिद्रयमेव हि ! ।। १०९।। अद्य छिनद्मि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः । सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादत: ! ।। ११०।। तदा चोरुनभोमार्गो-लङ्घनोत्थश्रमादिव । पश्चिमाम्भोनिधौ तूर्णं, मजति स्म नभोमणिः ।। १११।। ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव । दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः ।। ११२।। कोशात्कृपाणमाकृष्य, बद्ध्वा परिकरं च सः । प्रोचे कुमारमे।हि, यथा कुर्वे तवेहितम् ! ।। ११३ ।। (युग्मम्)
1161
Isll
II
Moll
lil
16
॥ll
lish
Iel
leel
Moll
Jain Education interlealhar
For Personal & Private Use Only
||ollow.jainelibrary.org