________________
Del
Isil
उत्तराध्ययन
सूत्रम् ३१७
Noil Mail
16 || प्रमादाप्रमादनाम 6 चतुर्थ
मध्ययनम्
Woh
Isil
सप्तम्या तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उल्वणः । नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ।।६०।।" तदसौ सुन्दरी मा स्म, म्रियतां मद्वियोगतः । ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ।। ६१।। मृगाक्षि ! सुन्दराख्यस्य, राज्ञः शङ्खपुरेशितुः । प्रथमं नन्दनं नाम्ना-ऽगडदत्तमवेहि माम् ।।१२।। कलाचार्यान्तिके कर्तु, कलाभ्यासमिहागमम् । त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः ।। ६३।। तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे । इतो व्रजंस्तु हत्वा त्वां, गमिष्यामि न संशयः ।। ६४।। इत्याद्युक्त्वा कथञ्चित्तां, स्वस्थीकृत्य नृपाङ्गजः । जगाम गेहमुद्याना-त्तद्रूपाक्षिप्तमानसः ।। ६५।। अन्यदा भूपभूरश्वा-रूढो राजपथे व्रजन् । तुमुलं रोदसीकुक्षि-म्भरिं श्रुत्वेत्यचिन्तयत् ।। ६६।। किं चुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवा । वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ! ।।६७।। ध्यायनेवं ददर्शकं, कुमारो मत्तदन्तिनम् । मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ।। ६८।। निषादिना परित्यक्तः, कुशिष्य इव सूरिणा । महाबलेः पादपातै-य॑ञ्चयन्निव मेदिनीम् ।। ६९।। मारयन् पशुमादीन्, गृहहट्टादि पातयन् । सोऽपि व्याल: क्षणात्काल, इवाभ्यागानृपाङ्गजम् ।। ७०।। (युग्मम्) तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः । मुञ्च मुञ्च व्यालमार्ग-मिति राजाङ्गजं जगुः ।। ७१।। कुमारस्तु हयं हित्वा, तूर्णमाह्वास्त हस्तिनम् । ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ।। ७२।। उत्तरीयं पुरस्तस्य, कुमारः प्राक्षिपत्ततः । दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः ।।७३।।
||oll IGE
|
Isl
lear
|| ||
|| || ill
||roll
Isl
||5| ||७||
Isil ||sl fell 16 llell lles 16
l l
||ll
Hell Ilall
Jain Education inte
For Personal & Private Use Only
le.la.jainelibrary.org