SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ३१६ 161 161 ||७|| प्रमादाप्रमादनाम चतुर्थमध्ययनम् Nor ध्यात्वेत्यूचे च तां सुभ्र !, काऽसि त्वं कस्य वा सुता ? । मां कलाभ्यासरक्तञ्च, परिमोहयसे कुतः ? ।। ४७।। सानन्दा सा तत: प्रोचे, नाम्ना मदनमञ्जरी । बन्धुदत्ताभिधश्रेष्ठि-मुख्यस्य तनयाऽस्म्यहम् ।। ४८।। इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता । इदं तु मन्दिरं विद्धि, मत्पितुर्गुणमन्दिरम् ।। ४९।। त्वां च दृष्ट्वा जगज्जेत्र-रूपं चित्ताब्जभास्करम् । जाताम्येषा महाभाग !, त्वदेकायत्तजीविता ।। ५०।। मारधिक्कारिरूपस्त्वं, यतःप्रभृति वीक्षितः । ततः प्रभृति मामुछे-बर्बाधते घस्मरः स्मरः ! ।। ५१।। कामदाघज्वरोच्छित्यै, नित्यं त्वद्दर्शनामृतम् । पिबामि स तु तेनापि, वृद्धिमेव प्रयात्यहो ! ।।५२॥ अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः । नो चेत्तद्भोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ? ।। ५३।। त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः । परःशतैरपि परै-हीयते भेषजैः कथम् ? ।।५४।। तद्दोषज्ञोपचारं मे, न करिष्यति चेद्धवान् । तदावश्यमयं जन्तुः, परलोकं गमिष्यति ! ।।५५।। यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा । तथा निर्वापय स्वाङ्ग-सङ्गमेनाङ्गमप्यदः ।।५६।। इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् । नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रान्तमप्यसौ ।। ५७।। "प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश । तत्राद्यायां भवेछिन्ता-ऽपरस्यां सङ्गमस्पृहा ।। ५८।। तृतीयायां तु नि:श्वास-श्चतुझं तु स्मरज्वरः । देहे दाहश्च पञ्चम्यां, षष्ठ्यां स्याद्भोजनारुचिः ।। ५९।। ||61 || ||७|| ||SIL lel ३१६ ||७| llll Jan Education internal For Personal & Private Use Only - inww.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy