SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ oll lifoll III प्रमादाप्रमादनाम चतुर्थमध्ययनम् lifall Hell Moll Moll उत्तराध्ययन तथा हि महति क्वापि, भूधरे भूरिकन्दरे । तिग्मांशुकिरणाभेद्य-नीरन्ध्रवनगह्वरे ।।१।। सूत्रम् ३११ वह्निमेधांसि चादाय, गृहीतगुरुदीपिकाः । बिलेन विविशुः केपि, धातुवादपरा नराः ।।२।। (युग्मम्) तत्र तेषां प्रमादेन, विध्यातौ वह्निदीपको । सर्वेषामपि जन्तूनां, प्रमादो हि रिपूयते ! ।।३।। ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् । दृष्टपूर्वं बिलाध्वानं, न पुनर्लेभिरे तदा ।। ४ ।। Nell तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गैर्विषघूर्णिताङ्गाः । कुत्रापि गर्ने पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः ।।५।। इति धातुवादिकथा ।। यथा चैते प्रदीपदृष्टबिलाध्वानोपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ने पतिताश्च तं मागं दृष्ट्वाप्यद्रष्टार एव जाताः, एवमन्योऽपि IN प्राणी कथञ्चित्कर्मक्षयोपशमादेः प्राप्तात् श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताद्यासक्तिप्रमादनष्टश्रुतज्ञानदीपो मिथ्याज्ञानतमोविमूढो | Moll लोभाहिदष्टः कुगतिगर्ते पतितश्च तस्याऽद्रष्टैव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति किन्तु कथञ्चिल्लब्धं त्राणहेतु ॥ IM सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः ।।५।। एवं वित्तादि न त्राणायेत्युपदर्श्य यत्कर्तव्यं तदाह - Wall Nell isll llel llol Isl Ioll Mall ३११ iell Wall liel Jain Edicional For Personal & Private Use Only m.www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy