SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Bell ||oll llell Hell ||5| प्रमादाप्रमादनाम उत्तराध्ययन सूत्रम् ३०७ ||slil |ON ell To चतुर्थ lel lifall Ifoll Ioll मध्ययनम् M || || lrell इति ध्यात्वा रूपकस्य, तस्याज्यसमितागुडान् । गृहे प्रेषीद्भार्यया च, घृतपूरानचीकरत् ! ।।६।। तयाऽथ घृतपूरेषु, कृतेष्वागात्पुरान्तरात् । तज्जामाता तत्र मित्र-युक्तः कार्येण केनचित् ! ।।७।। ततः सा घृतपूरैस्तै-स्तं सतन्त्रमभोजयत् । जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः ! ।।८।। तस्मिन् गते च स वणिग्, भोजनाय गृहं गतः । वीक्ष्य स्वाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् ! ।।९।। मनस्विनि ! कुतो नाद्य, प्रतपाः कृतास्त्वया ? । जगाद रमणी स्वामि-निर्मितास्तेऽभवन्मया ।।१०।। किन्तु हेतोः कुतोप्यत्रा-यातोऽस्मद्दुहितुः पतिः । समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः ! ।।११।। तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् । मया परार्थमाभीरी-वराकी वञ्चिता वृथा ! ।। १२ ।। तद्विप्रतारणोत्पन्नं, पापमेव मम स्थितम् । घृतपूरास्तु ते जग्धाः, परैरेत्य कुतश्चन ।।१३।। पापं हि क्रियते मूढः, स्त्रीपुत्रादिकृते भृशम् । विपाकस्य तु काले त-त्स्वयमेवोपभुज्यते ! ।।१४।। इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः । ग्रीष्ममध्याह्नार्कतप्तो, विशश्राम तरोस्तले ।। १५ ।। साधुमेकं च भिक्षायै, यान्तं वीक्ष्यैवमब्रवीत् । भगवन्नेहि विश्राम्य, वार्तयन्मामिह क्षणम् ।।१६।। मुनिर्ज्ञानी जगौ गम्यं, स्वकार्येण मया द्रुतम् । विश्रामाय ततो नाहं, स्थास्यामीह महामते ! ।।१७।। वणिक् प्रोचेन्यकार्येणा-ऽप्यार्य ! किं कोपि गच्छति ? । यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् ! ।।१८।। Isll Ill usl Isll ३०७ lol Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy