________________
उत्तराध्ययन
सूत्रम्
३०५
क्षात्रेणानेन लघुना, परास्कन्दी कथं च स । प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ।। ५ ।। तदस्य खेचरस्येव, पाटचरशिरोमणेः । वाचामगोचरां शक्तिं दृष्ट्वा चित्रीयते मनः ।। ६ ।।
संसारमावण्ण परस्स अट्ठा, साहारणं जं च करेइ कम्मं । कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उविंति ।। ४ ।।
व्याख्या - संसरणं तेषु तेषूच्चावचकुलेषु पर्यटनं संसारस्तमापन्नः प्राप्तः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अट्ठत्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जं चत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच्च साधारणं वा यदात्मनोन्येषाञ्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः 'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा
Jain Education Intentional
इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् । सत्यमेतत्कथमहं प्रविष्टो निर्गतोऽमुना ? ।। ७ ।।
इति स्वीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् । मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे जडाशयः ! ।। ८ ।।
तत्रागता राजनरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः । निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ।। ९ ।। इति पापप्रशंसाभिलाषे चौरकथा । एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ।। ३॥
इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्तिर्भाविनी, अमुक्तौ वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्त इत्यपि ॥ कश्चिन्मन्येताऽत आह -
DOODLE
For Personal & Private Use Only
||७|| प्रमादाप्रमादनाम
चतुर्थ
मध्ययनम्
३०५
www.jainelibrary.org