________________
उत्तराध्ययन
सूत्रम्
३०४
llell ॥७॥
llell
ततो गृहीतोहमिति, स प्रोचे बाह्यदस्यवे । सोऽपि तं हस्तयोर्धृत्वा, बहिः क्रष्टुं समाकृषत् ।।६।। सोऽन्तःस्थेन गृहेशेन, बहिःस्थेन च दस्युना । आकृष्यमाणो नैवाभू-त्स्वाङ्गसङ्गोपने क्षमः ।। ७ ।। अतीव सङ्कटे क्षात्रे, तदा तत्र स्वनिर्मिते । सोऽकृत्यत भृशं तीक्ष्णैः, कपिशीर्षकदन्तकैः ||८||
ततः स चौरः सपराक्रमाभ्यां ताभ्यामुभाभ्यामपि कृष्यमाणः । क्षात्रेण तेन स्वकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ।। ९।। इति स्वकृतकर्मभोगे चोरकथा । एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, स्वकृतकर्मनिर्मितविविधबाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह-यतः कृतानां कर्मणां न मोक्षोऽस्ति, यदुक्तं - "यदिह क्रियते कर्म, तत् परत्रोपभुज्यते । मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते ।। १ ।। "
ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धा: -
Jain Education International
दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे । आरुह्य क्षात्रमखन-द्धनं चादाय निर्ययौ ॥ | १ ||
ततः प्रातर्बहुद्रव्य - विनाशोत्पन्नदुःखतः । प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ।। २ ।।
लोके च मिलिते भूरि-तरे तत्र स तस्करः । कः किं वक्तीति निर्णेतु-मागान्मञ्जुलवेषभृत् ।। ३।। (युग्मम्) लोकाचैवं तदा प्रोचु-दुरारोहेऽत्र वेश्मनि । आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ।। ४ ॥
For Personal & Private Use Only
お
20 త ర లి లె లె లో ఫాలో
प्रमादाप्रमादनाम
चतुर्थमध्ययनम्
३०४
www.jninelibrary.org