________________
उत्तराध्ययन
सूत्रम्
३०३
|| Isl ||sil ||sil IIsl
Is
||G इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः । अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ।।१६।। ||प्रमादाप्रमादनाम
lal इति द्रव्यलोभे चोरकथा । तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ।।२।।
चतुर्थ
मध्ययनम् अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थं द्रढयितुमाह -
तेणे जहा संधिमुहे गहीए, स कम्मुणा किञ्चइ पावकारी ।
एवं पया पेञ्च इदं च लोए, कडाण कम्माण न मुक्खु अस्थि ।।३।। व्याख्या - स्तेनश्चौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः स्वकर्मणा स्वीयानुष्ठानेन कृत्यते छिद्यते पापकारी पापकरणशीलः, कथं पुनरयं ॥ कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि - नगरे वाप्यभूत्कोपि, चौरश्चौर्यविशारदः । स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ।।१।।
lIsl नन्द्यावर्तघटाम्भोधि-कपिशीर्षादिसंस्थितम् । क्षात्रं दत्वान्वहं चक्रे, तास्कयं स हि तस्करः ।।२।। सर्वतो दत्तफलके-ऽन्यदाऽपवरके क्वचित् । स क्षात्रमखनञ्चारु, कपिशीर्षकसंस्थितम् ।।३।। तत्र क्षात्रं खनन्तं तं, ज्ञात्वा जाग्रगृहाधिपः । उत्थाय तं प्रदेशं द्राक्, बभाज निभृतक्रमः ।। ४ ।। गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ । इति सोऽर्धप्रविष्टं तं, द्रुतं जग्राह पादयोः ।।५।।
ilsil
Isl
Jain Education instag
For Personal Private Use Only