SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ llol उत्तराध्ययन सूत्रम् चतुर्थ ३०२ i l७ प्रमादाप्रमादनाम Illl lel ||Gll ||ol Illl lel lll lel lel मध्ययनम् Welhi Neil Nell sill lIsll धनं दत्वा च कस्यापि, परिणिन्ये स कन्यकाम् । निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि ! ।।३।। प्रजातायां तु जायाया-मिति दध्यो स तस्करः । वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ।।४।। अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकृन्मया । तज्जनन्यां तु जीवन्त्यां, तनिहन्तुं न शक्ष्यते ! ।।५।। सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य सः । तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ।।६।। द्रव्येणान्यां पुनः पाणी, कृत्य प्राग्वजधान सः । एवं पुन: पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ! ।।७।। अन्यदा स कनीमेका-मुपयेमे मनोरमाम् । जातापत्यामपि न ता-मवधीद्रूपमोहितः ।।८।। पूर्णाष्टवर्षे सञ्जाते, तजाते चेत्यचिन्तयत् । मया भूयस्तरं काल-मियं मोहेन रक्षिता ।।९।। एनां निहत्य तत्पश्चात्, मारयिष्यामि दारकम् । ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद् द्रुतम् ! ।।१०।। मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः । गृहानिर्गत्य पूञ्चक्रे, निर्बलानां ह्यदो बलम् ! ।।११।। तत: किं पूत्करोषीति, लोकैः पृष्टो जगाद सः । निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ।।१२।। तच्छ्रुत्वा तस्य सौधान्तः, प्रविश्योर्वीशपूरुषाः । तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ।।१३।। कूपं च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् । ततोऽवबुध्य तं दस्युं, बद्ध्वा निन्युनूपान्तिकम् ।।१४।। भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्याखिलं धनम् । लोकेभ्यो दापयत्तं च, विडम्ब्यामारयद् द्रुतम् ।। १५ ।। llell Gll lifall ||ll fel Ifoll foll Iolll lel 16ll llell ell llel llol foll foll Ioll ||Gl Moll ३०२ ||७|| ||l JainEducation intellellinal For Personal & Private Use Only Illiainsbrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy