SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Poll उत्तराध्ययन सूत्रम् २९९ Ioll ||७|| प्रमादाप्रमादनाम 16 IT चतुर्थ मध्ययनम् ||७|| ||६|| Ifoll isll Nei फलहीति वदंस्तस्य, भ्रूसज्ञामट्टनो व्यधात् । जग्राह फलहीग्राहं, पाणिना सोऽपि मात्स्यिकम् ।। ५०।। (युग्मम्) तं कमण्डलुवन्मौलिं, परितोऽभ्रमयञ्च सः । ततस्तुष्टो बहुद्रव्य-मट्टनायार्पयन्नृपः ।।५१।। तञ्च दत्वा हालिकाया-ऽट्टनोऽपि विससर्ज तम् । स्वयं त्ववन्तीमगमत्, कृतार्थो वैरशुद्धितः ।। ५२।। विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् सुतादिभिः । वृद्धोऽयमऽसमर्थोय-मिति सोऽहील्यतान्वहम् ! ।। ५३।। ततो मानादनापृच्छ्य, तान् कौशाम्बी जगाम सः । आवत्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ।। ५४।। बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽट्टनः । कुर्वनियुद्धमवधीद्राज्ञो मल्लं निरङ्गणम् ।। ५५।। आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा । प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत् ! ।। ५६।। ततो माभूच्छ्रमो व्यर्थो, ममेयानिति चिन्तयन् । इत्येकामब्रवीदााँ, स्वं ज्ञापयितुमट्टनः ।।५७।। सा चेयं - "कथयति वनशकुनानां, कथयत हे शकुनकाः ! शकुनकानाम् । यदिहाट्टनेन निहतो, निरङ्गणः शस्त्ररहितेन ! ।। ५८।।" श्रुत्वेति श्रुतपूर्वी तं, महामल्लं महीपतिः । यावज्जीवं जीविकार्ह, तुष्टस्तस्मै ददौ धनम् ।। ५९।। लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा । तत्रस्थं प्राप्तवित्तं च, श्रुश्रुवुर्बन्धवोऽपि तम् ।। ६० ।। ततस्तेऽभ्येत्य तत्पाचे, तं पादपतनादिभिः । विश्वास्योपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ।।६।। अध्यासीदट्टनो वित्त-लुब्धा ह्येते श्रयन्ति माम् । निर्धनस्य तु मे भूयः, करिष्यन्ति पराभवम् ।। ६२।। sil llel |lol sil Isil llell 16 २९९ lifoll in Education Internal For Personal & Private Use Only www. by.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy