________________
प्रमादाप्रमादनाम
उत्तराध्ययन
सूत्रम् २९८
चतुर्थ
मध्ययनम्
भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् । क्ष्मातलाचावधूयाङ्ग-मुत्तिष्ठन्तौ विनिद्रवत् ।।३७।। विलगन्ती मिथो बाढं, चिरान्मिलितबन्धुवत् । कृतप्रहारहुडुव-द्वियुञ्जानौ च सत्वरम् ।। ३८।। उत्पतन्तौ पतङ्गवत्, प्लवमानौ प्लवङ्गवत् । तौ चिरं चक्रतुमल्ल-युद्धं मल्लशिरोमणी ।। ३९ ।। (पञ्चभिः कुलकम्) किन्तु तुल्यबलौ वीक्ष्य, तौ जयश्रीः स्वयंवरा । ध्यायन्ती कं वृणोमीति, नैकमप्यवृणोत्तदा ।। ४०।। पूर्ण भावि द्वितीयेह्नि, नियुद्धमनयोर्ननु । इत्युत्तस्थौ नृपस्ताव-त्तावपि स्वाश्रयं गतो ।। ४१।। ततोट्टनेन फलही, प्रोचे पुत्र ! तदुच्यताम् । तेन मल्लेन यद्वाढं, त्वदङ्गं बाधितं भवेत् ।। ४२।। अट्टनाय ततः सर्वं, फलही सत्यमब्रवीत् । प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः । ।। ४३।। ततोऽट्टनः पक्कतैल-मर्दनैर्वह्नितापनः । तदहभैषजैश्च द्राग, विदधे तं पुनर्नवम् ।। ४४।। मात्स्यिकस्यापि पार्श्वेऽङ्ग-मर्दकान्प्राहिणोनृपः । सा तु श्रमादिताङ्गोऽपि, गर्वान्नामर्दयद्वपुः ।। ४५।। प्रोचे च क्वनु रङ्कोयं, स्थातुं शक्ष्यति मे पुरः । अहं ह्यमुष्य जनक-मप्यजेषं पुरा जवात् ! ।। ४६।। समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ । पार्थिवे चोत्थिते प्राग्व-त्तमसजयदट्टनः ।। ४७।। मात्स्यिकस्तु मदाविष्टो-ऽचीकरनाङ्गमर्दनम् । नियुद्धमारभेतां तौ, तृतीयेप्यह्नि पूर्ववत् ।। ४८।। तदा च मात्स्यिकं वीक्ष्य, नियुद्धश्रान्तविग्रहम् । निरोजस्कप्रहारञ्च, वैशाखस्थानसंस्थितम् ।। ४९।।
२९८
in Education
For Personal & Private Use Only
www.jainelibrary.org