SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २९७ 11ell ||७|| LOTTTTT Jain Education International तत्प्राज्येन प्रयत्नेन, कृषिं कुर्वे तथापि हि । अन्नमप्युदरापूर्ति करं सम्पद्यते न मे ! ।। २४ ।। मल्लोवादीदमुं मुक्त्वोद्यममेहि समं मया । अतिस्तोकेन कालेन कुर्वे त्वामीश्वरं यथा ! ।। २५ ।। सोप्पूचेऽहं तदागच्छाम्यादिशेद्यदि मां वशा । पृष्टा मल्लेन तत्रार्थे, ततः साप्येवमब्रवीत् ।। २६ ।। उतोत्यनेन कर्पासो ऽधुना स च विनाऽमुना । विनश्यति तदा च स्यात्कथमाजीविका मम ? ।। २७ ।। मल्लोब्रवीदत्र यावान्, कर्पासश्चिन्तितो भवेत् । गृहाण तावतो मूल्य- मधुनैवार्पयामि ते ।। २८ ।। इत्युदीर्य तया प्रोक्त-मानं मल्लो ददौ धनम् । ततोनुमेने सा कान्तं किं हि वित्तान्न जायते ? ।। २९ ।। अनोथ तमादाय, ययावुज्जयनीं जवात् । पोषयामास तं प्रो-रुपायैश्च परश्शतैः ।। ३० ।। अशिक्षयच्च तस्योग्रं, मल्लयुद्धं महौजसः । फलहीमल्ल इत्यस्या ऽभिधानं च विनिर्ममे ।। ३१ । । द्वितीयाब्दे च सम्प्राप्ते, मल्लयुद्धमहोत्सवे । अट्टनोगात्समं तेन, पुनः सोपारके पुरे ।। ३२ ।। अथ सिंहगिरी राज्ञि मल्लयुद्धदिदृक्षया । समं पौरैः परोलक्षै रङ्गमण्डपमाश्रिते ।। ३३ ।। योधं योधमनेकेषु, मल्लेषूपरतेषु च । नियुद्धार्थमढौकेतां, फलहीमात्स्यिकौ मिथ: ।। ३४ ।। (युग्मम् ) क्षोभयन्तौ भुजास्फोट-रवैर्वीरमनांस्यपि । कम्पयन्तौ धरापीठं, दुर्धरैः पाददर्दुरैः ।। ३५ ।। मुष्टामुष्टिप्रकुर्वन्तौ, दन्तादन्तीव कुञ्जरौ । प्रबलैः पादविन्यासै - र्नमयन्ताविव क्षमाम् ।। ३६ ।। For Personal & Private Use Only ||६|| प्रमादाप्रमादनाम चतुर्थ मध्ययनम् ॥६) 에에에에에에에에에에에에에에 २९७ www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy