________________
उत्तराध्ययन
सूत्रम् २९६
16 प्रमादाप्रमादनाम 151 Ifoll
मध्ययनम् Wall
चतुर्थ
Toll
M
lesil lell
स्वीयावासे ततो गत्वा-ऽट्टनं एवं व्यचिन्तयत् । केनाप्यजितपूर्वोह, मल्लेनानेन निर्जितः ।।११।। तारुण्योपचयाञ्चायं, चीयमानबलः कथम् ? । पुनर्जय्यो मया क्षीणो-जसा यौवनहानित: ! ।। १२ ।। कर्तव्या वैरशुद्धिश्च, मयोपायेन केनचित् । शल्यवत् खाट्करोत्यन्त-निम्लानिर्हि मानिनाम् ।।१३।। ध्यात्वेति तज्जैवबलं, सोऽन्यं मलं गवेषयन् । सौराष्ट्र बहवो मल्लाः, श्रुत्वेति तमभिव्रजन् ।।१४।। भृगुकच्छसमीपस्थ-हरणीग्रामसीमनि । एकं कर्षकमद्राक्षी-त्कर्पासवपनोद्यतम् ।। १५ ।। (युग्मम्) हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् । द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ।।१६।। तञ्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् । तदीयाहारवीक्षायै, तत्रास्थाद्यावदट्टनः ।।१७।। (युग्मम्) प्रातराशकृते तावल्लात्वा कूरभृतं घटम् । तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः ।।१८।। कूरञ्च सद्यः कुम्भस्थं, जनसे ग्रासलीलया । गत्वा क्वापि पुरीषस्यो-त्सर्ग चक्रे च कर्षकः ।। १९।। अट्टनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत । तञ्चाद्राक्षीदतिस्वल्पं, शुष्कं छागपुरीषवत् ।। २०।। जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः । वैरशुद्धिसमर्थोयं, भावीत्यन्तरभावयत् ।। २१।। तस्यैव सौधे सन्ध्यायां, ययाचे वसतिं च सः । सोऽपि तामार्पयत्तत्र, मल्लोप्यस्थाद्यथासुखम् ।। २२।। का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् । प्रोचे कृषीवलोप्येव-मस्म्यहं ननु निर्धनः ।। २३।।
lesil llell ilsil licell ||sll
Ilasil
lll
ell sill
Ilel
WOM
|| Mail Holl ||all
Mall
Tall
२९०
liall
116ll
www.
in Education International
For Personal & Private Use Only
by.org