________________
उत्तराध्ययन
सूत्रम
२९५
॥ बाध्यते प्रसभम् । तावच्छरीरमूच्छ, त्यक्त्वा धर्मे कुरुष्व मतिम् ।।१।। " जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनमल्लो दृष्टान्तस्तत्र चायं सम्प्रदायः,
तथाहि
जराजर्जरवपुषश्च नैव तादृशी धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः । उक्तं च - " तद्यावदिन्द्रियबलं, जरया रोगैर्न
Jain Education International
उज्जयन्यां नगर्यां श्री - जितशत्रुर्नृपोऽभवत् । तत्र चाप्रतिमल्लोभू-न्मल्लराजोऽट्टनाभिधः । । १ । ।
स च गत्वान्यराज्यस्थै-रपि मलैरयुध्यत । तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ।। २ ।। तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे । मल्लयुद्धप्रियः सिंह- गिरिसञ्ज्ञोऽभवनृपः ।।३।।
यो मल्लेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् । इति तत्राऽट्टनो गत्वा, प्रत्यब्दमजयत्परान् ।। ४।। ततः सिंहगिरिर्दध्यौ यदागत्यान्यराज्यतः । अयं जयति मन्मल्लान्ममापभ्राजना हि सा ।। ५॥ ततोऽहमपरं कञ्चित्कुर्वे मल्लं बलोत्कटम् । ध्यात्वेति मार्गयन्मल्लं, वाद्धितीरे ययौ नृपः ।। ६ ।। वसां पिबन्तं मीनानां तत्राद्राक्षी धीवरम् । ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ।। ७ ।। अशिक्षयन्नियुद्धं च, भूपस्तस्य तरस्विनः । ततः सोऽभून्महामल्लो-ऽजय्योन्यैर्हस्तिमल्लवत् ।। ८ ।। अथाट्टनो नियुद्धाहे, समासन्ने निजात्पुरात् । शम्बलेन बलीवर्दं भृत्वा सोपारकं ययौ ।। ९ ।।
स च मात्स्यिकमल्लेन, नियुद्धे निर्जितो द्रुतम् । विषादमाससादो-र्भग्नो हस्तीव हस्तिना ।। १० ।।
For Personal & Private Use Only
네네네네네네네네에에에에에에에에에에에에
प्रमादाप्रमादनाम
चतुर्थ
मध्ययनम्
२९५
Www.jainelibrary.org