SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् २८७ || Ilall स चाद्यसंहननवा-नेवस्यात्राऽपरः पुनः । तञ्च संहननं कस्या-ऽप्यधुना नास्ति भारते ।।७२।। is चतुरङ्गीयनाम Ioll युक्तयेत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः । हित्वा वस्त्रादिकं नग्नो, निरगानगराबहिः ।।७३।। तृतीयतञ्चोद्यानस्थितं नन्तुं, तद्भगिन्युत्तराभिधा । ययौ नग्नं च तं वीक्ष्य, साऽपि नग्नाऽभवद्रुतम् ! ।।७४।। मध्ययनम् भिक्षार्थं नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् । ददर्श गणिका काचि-द्दध्यौ चैवं स्वचेतसि ।। ७५।। अङ्गान्याच्छादितान्येवा-ऽस्माकं गौरवमियति । प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि स्वभावतः ।। ७६।। तदेनां नग्निकां वीक्ष्याऽस्मास लोको विरङक्ष्यते । ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ।। ७७।। तथापि तामनिच्छन्ती, शिवभूतिरदोऽवदत् । साध्वीनां वसनादाने, नूनं दोषो न विद्यते ।। ७८।। अत एव च देवीयं, प्रदत्ते चीवराणि ते । तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ।। ७९।। शिवभूतेश्च शिष्यो द्वा-वभूतां बुद्धिशालीनौ । कोडिनकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा ।। ८०।। इत्यष्टमो दिक्पटसज्ञनिह्नवः, प्रकाशितो हारितशुद्धबोधिकः । लब्धोऽपि बोधिव्रजतीति कस्यचित्, तद्रक्षणं तत्कुरुत प्रयत्नतः ! ।। ८१।। इत्यष्टमनिह्नवकथा ।। ८।। इति समाप्ता निह्नववक्तव्यतेति सूत्रार्थः ।।९।। अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्यं दुर्लभमित्याह - सुई च लद्धं सद्धं च, वीरिअं पुण दुल्लहं । बहवे रोअमाणावि, नोयणं पडिवजए ।।१०।।। व्याख्या - श्रुति, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमात्संयमविषयं पुनःशब्दस्य विशेषकत्वात् विशेषेण दुर्लभं, यतो Nel i lal || For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy