________________
उत्तराध्ययन
सूत्रम्
6 चतुरङ्गीयनाम Mall Islil
मध्ययनम्
तृतीय
२८६
सूरिर्जगाद व्युछिन्नो, जिनकल्पो हि भारते । श्रीवीरस्वामिपौत्रेण, श्रीजम्बूस्वामिना समम् ।।५९।। सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मादृशाम् । मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ।।६०॥ मोक्षार्थिना हि सकल-स्त्याज्य एव परिग्रहः । वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् ! ।। ६१।। सूरयः प्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः । धर्मोपकरणं तेन, न परिग्रह उच्यते ! ।। ६२।। तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत् । लोभादेव हि मोक्षस्य, विघ्नः स्यान तु चीवरात् ! ।।३।। प्रयोगश्चात्र वस्त्रादि, न दोषाय तपस्विनाम् । धर्मोपष्टम्भदायित्वात्, शुद्धाहारादिवत्स्फुटम् ! ।।६४।। न च हेतुरसिद्धोऽय-मिति वाच्यं त्वया यतः । धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दृश्यते ! ।। ६५ ।। तथा हि स्थानोपवेशनस्वाप-निक्षेपग्रहणादिषु । जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते ।। ६६।। सम्पातिमादिसत्वानां, रक्षायै मुखवस्त्रिकाम् । भक्तपानस्थजन्तूनां, परीक्षायै च पात्रकम् ।। ६७।। सम्यक्त्वज्ञानचारित्र-तपः साधनहेतवे । चीवराणि च कल्पादी-न्यङ्गीकुर्वन्ति साधवः ।।६८।। (युग्मम्) वस्त्रविना तु शीतोष्ण-दंशादिभिरुपद्रुतः । अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ! ।। ६९।। धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता । सुनिश्चितेति व्रतिना, तदादानं न दुष्यति ।। ७०।। विनोपकरणं यस्तु, जीवादीस्त्रातुमीश्वरः । जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ।। ७१।।
२८६
ller
el
Isl ||
la.I
Jain Education international
For Personal & Private Use Only