________________
isi चतुरङ्गीयनाम
उत्तराध्ययन
सूत्रम् २८५
II तृतीय
IN मध्ययनम्
||ll
Gil Isil ||SIL
foll
Well ||slil
स्वयमेव ततस्तेन, लुञ्चिते, स्वीयमस्तके । गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ।। ४६।। तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः । मामनापृच्छ्य किमिदं, त्वया कृतमिति ब्रुवन् ? ।। ४७।। स प्रोचे पृष्टमेवैत-त्स्वातन्त्र्यप्रार्थिना मया । ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ।। ४८।। बहिर्विहत्य तत्राऽऽगुः, सूरयोऽप्यऽन्यदा पुनः । तदा शिवं नृपः स्नेहा-दाहूय स्वगृहेऽनयत् ।। ४९।। अनिच्छतोऽपि तस्याऽदा-द्भूधवो रत्नकम्बलम् । तमादायागतं सूरिः, शिवभूतिं तदेत्यवक् ।।५०।। किमयं भवता वत्स !, जगृहे रत्नकम्बलः । न हि नो बहुमूल्यस्य, वस्त्रादेर्ग्रहणं मतम् ! ।। ५१।। इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूर्छया । किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ।। ५२।। अस्य मूर्छानिदानेन, किमननेति सूरयः । तस्मिन् क्वापि गते रत्न-कम्बलं तमकर्षयन् ।।५३।। विधाय तस्य शकला-निषद्यायै तपस्विनाम् । आर्पयंस्तञ्च विज्ञाय, शिवभूतिरदूयत ।। ५४ ।। कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् । अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ।। ५५।। भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः । तत्रैके भुञ्जते पाणा-वन्ये त्वश्नन्ति पात्रके ।। ५६।। तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः । तत्र वस्रधरा एके-ऽन्ये तु चीवरवर्जिताः ।।५७।। श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः । विधीयते न निर्ग्रन्थै-निष्परिग्रहतार्थिभिः ? ।।५८।।
leel foll
Isl
Mall
Isll lfell
ill lol ||all llol ilal
२८५
Isl
Wel
IAN
in Economia
For Personal Private Use Only